Skip to content

गोपीगीत

20
॥ श्री ॥

गोपीगीत : प. पू. श्री श्रीकान्त दास जी महाराज ।

गोप्य ऊचुः

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १

शरदुदाशये साधुजातसत्

सरसिजोदरश्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

वरद निघ्नतो नेह किं वधः ॥ २

विषजलाप्ययाद् व्यालराक्षसाद्

वर्षमारुताद् वैद्युतानलात् ।

वृषमयात्मजाद् विश्वतोभया-

दृषभ ते वयं रक्षिता मुहुः ॥ ३

न खलु गोपिकानन्दनो भवा-

नखिलदेहिनामन्तरात्मदृक्

विखनसार्थितो विश्वगुप्तये

सख उदेयिवान् सात्वतां कुले ॥ ४

विरचिताभयं वृष्णिधुर्य ते

चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

शिरसि धेहि नः श्रीकरग्रहम् ॥ ५

व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किंकरीः स्म नो

जलरुहाननं चारु दर्शय ॥ ६

प्रणतदेहिनां तृणचरानुगं

पापकर्शनं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७

मधुरया गिरा वल्गुवाक्यया

बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती-

रधरसीधुनाऽऽप्याययस्व नः ॥ ८

तव कथामृतं तप्तजीवनं

कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

भुवि गृणन्ति ते भूरिदा जनाः ॥ ९

प्रहसितं प्रिय प्रेमवीक्षणं

विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥ १०

चलसि यद् व्रजाच्चारयन् पशून्

नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणांकुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥ ११

दिनपरिक्षये नीलकुन्तलै-

र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन् मुहु-

र्मनसि नः स्मरं वीर यच्छसि ॥ १२

प्रणतकामदं पद्मजार्चितं

धरणिमण्डनं ध्येयमापदि ।

चरणपंकजं शन्तमं च ते

रमण नः स्तनेष्वर्पयाधिहन् ॥ १३

सुरतवर्धनं शोकनाशनं

स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां

वितर वीर नस्तेऽधरामृतम् ॥ १४

अटति यद् भवानह्नि काननं

त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५

पतिसुतान्वयभ्रातृबान्धवा-

नतिविलङ्घय तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्‌गीतमोहिताः

कितव योषितः कस्त्यजेन्निशि ॥ १६

रहसि संविदं हृच्छयोदयं

प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

मुहुरतिस्पृहा मुह्यते मनः ॥ १७

व्रजवनौकसां व्यक्तिरङ्ग ते

वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

स्वजनहृद्रुजां यन्निषूदनम् ॥ १८

यत्ते सुजातचरणाम्बुरुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद् व्यथते न किंस्वित् कूर्पादिभिर्भमति धीर्भवदायुषां नः ॥ १९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥

॥ जय हो ॥

हिंदी · Read on Bhajan Baan

Share this bhajan with your family

Send it to your satsang group before kirtan so everyone has the words.

Sponsored
Devotional partner
Advertisement

About this bhajan

Meaning, tradition and how to sing it

गोपीगीत is a bhajan dedicated to Krishna Ji, sung in homes, temples, and community sabhas across India.

The bhajan opens with the line "गोपीगीत : प. पू. श्री श्रीकान्त दास जी महाराज ।", a verse devotees often recite while lighting the evening lamp or gathering for kirtan.

On this page you can read the complete lyrics in Hindi (Devanagari). Use the language toggle above to switch scripts, adjust the font size for comfortable reading, and save the bhajan to revisit during your next sabha or solo practice.

If you enjoy this composition, explore more bhajan bhajans below. Each one is curated to help you build a devotional reading list that suits your tradition, mood, and occasion.

More bhajans you may like

See all