
त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं
त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं
त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कॊमलैः शुभैः
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं
कॊटि कन्या महादानं तिलपर्वत कॊटयः
काञ्चनं क्षीलदानॆन एकबिल्वं शिवार्पणं
काशीक्षॆत्र निवासं च कालभैरव दर्शनं
प्रयागॆ माधवं दृष्ट्वा एकबिल्वं शिवार्पणं
इन्दुवारॆ व्रतं स्थित्वा निराहारॊ महॆश्वराः
नक्तं हौष्यामि दॆवॆश एकबिल्वं शिवार्पणं
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा
तटाकादिच सन्धानम् एकबिल्वं शिवार्पणं
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं
कृतं नाम सहस्रॆण एकबिल्वं शिवार्पणं
उमया सहदॆवॆश नन्दि वाहनमॆव च
भस्मलॆपन सर्वाङ्गम् एकबिल्वं शिवार्पणं
सालग्रामॆषु विप्राणां तटाकं दशकूपयॊः
यज्ञकॊटि सहस्रस्च एकबिल्वं शिवार्पणं
दन्ति कॊटि सहस्रॆषु अश्वमॆध शतक्रतौ
कॊटिकन्या महादानम् एकबिल्वं शिवार्पणं
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं
अघॊर पापसंहारम् एकबिल्वं शिवार्पणं
सहस्रवॆद पाठेषु ब्रह्मस्थापन मुच्यतॆ
अनॆकव्रत कॊटीनाम् एकबिल्वं शिवार्पणं
अन्नदान सहस्रॆषु सहस्रॊप नयनं तथा
अनॆक जन्मपापानि एकबिल्वं शिवार्पणं
बिल्वाष्टकमिदं पुण्यं यः पठॆश्शिव सन्निधौ
शिवलॊकमवाप्नॊति एकबिल्वं शिवार्पणं
हिंदी · Read on Bhajan Baan
Share this bhajan with your family
Send it to your satsang group before kirtan so everyone has the words.

