
श्री हनुमान स्तवन
प्रनवउँ पवनकुमार
खलबन पावक ज्ञानघन
जासु हृदय आगार
बसहिं राम सर चाप धर
अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्
सकलगुणनिधानं वानराणामधीशम्
रघुपतिप्रियभक्तं
वातजातं नमामि
गोष्पदीकृतवारीशं
मशकीकृतराक्षसम्
रामायणमहामालारत्नं
वन्देऽनिलात्मजम्
अञ्जनानन्दनं वीरं
जानकीशोकनाशनम्
कपीशमक्षहन्तारं वन्दे
लङ्काभयङ्करम्
उल्लङ्घ्य सिन्धो: सलिलं सलीलं
य: शोकवह्निं जनकात्मजाया:
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम्
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम्
यत्र-यत्र रघुनाथकीर्तनं
तत्र-तत्र कृतमस्तकाञ्जलिम्
बाष्पवारिपरिपूर्णलोचनं मारुतिं
नमत राक्षसान्तकम्
हिंदी · Read on Bhajan Baan
Share this bhajan with your family
Send it to your satsang group before kirtan so everyone has the words.

