
अधरं मधुरं वदनं मधुरं
अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरम्,
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरम्।
वचनं मधुरं चरितं मधुरं,
वसनं मधुरं वलितं मधुरम्,
चलितं मधुरं भ्रमितं मधुरं,
वेणुर्मधुरो रेणुर्मधुरः,
पाणिर्मधुरः पादौ मधुरौ,
नृत्यं मधुरं सख्यं मधुरं,
गीतं मधुरं पीतं मधुरं,
भुक्तं मधुरं सुप्तं मधुरम्,
रूपं मधुरं तिलकं मधुरं,
करणं मधुरं तरणं मधुरं,
करणं मधुरं स्मरणं मधुरं,
वमितं मधुरं शमितं मधुरं,
गुञ्जा मधुरा माला मधुरा,
यमुना मधुरा वीची मधुरा,
गोपी मधुरा लीला मधुरा,
युक्तं मधुरं मुक्तं मधुरम्,
दृष्टं मधुरं शिष्टं मधुरं,
गोपा मधुरा गावो मधुरा,
यष्टिर्मधुरा सृष्टिर्मधुरा,
दलितं मधुरं फलितं मधुरं,
हिंदी · Read on Bhajan Baan
Share this bhajan with your family
Send it to your satsang group before kirtan so everyone has the words.



